वांछित मन्त्र चुनें

न्य॑क्रन्दयन्नुप॒यन्त॑ एन॒ममे॑हयन्वृष॒भं मध्य॑ आ॒जेः । तेन॒ सूभ॑र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने॑ जिगाय ॥

अंग्रेज़ी लिप्यंतरण

ny akrandayann upayanta enam amehayan vṛṣabham madhya ājeḥ | tena sūbharvaṁ śatavat sahasraṁ gavām mudgalaḥ pradhane jigāya ||

पद पाठ

नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒ऽयन्तः॑ । ए॒न॒म् । अमे॑हयन् । वृ॒ष॒भम् । मध्ये॑ । आ॒जेः । तेन॑ । सूभ॑र्वम् । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥ १०.१०२.५

ऋग्वेद » मण्डल:10» सूक्त:102» मन्त्र:5 | अष्टक:8» अध्याय:5» वर्ग:20» मन्त्र:5 | मण्डल:10» अनुवाक:9» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एनं वृषभम्) इस वृषभाकृतिवाले रथयान को (उपयन्तः) ऊपर प्राप्त होते हुए ऊपर बैठते हुए (आजेः-मध्ये) संग्राम के मध्य में (नि अक्रन्दयन्) घनघोष कराते हुए (अमेहयन्) जल बरसाते हैं-भाप की वर्षा कराते हैं (मुद्गलः) शत्रु के मद को निगलनेवाले (तेन) वृषभ आकृतिवाले रथ से (गवां शतवत् सहस्रम्) वृषभों के सौ या सहस्र गुणित बल को (सुभर्वम्) तथा शोभन अदनीय भोग्य धनादि को (प्रधने-जिगाय) संग्राम में जीतता है ॥५॥
भावार्थभाषाः - वृषभाकृतिवाले यान के ऊपर सैनिक जन बैठते हैं और उससे घोष कराते हुए भाप की वर्षा कराते हैं, उसमें शतगुणित सहस्रगुणित वृषभों का बल होता है, संग्राम में उसके द्वारा शत्रु के बहुत से धन को जीता जाता है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एनं वृषभम्-उपयन्तः) एतं वृषभाकृतिकं रथं यानविशेषमुपप्राप्नुवन्त उपरि तिष्ठन्तः (आजेः-मध्ये नि अक्रन्दयन्-अमेहयन्) सङ्ग्रामस्य मध्ये निघोषयन्ति नितरां शब्दं कारयन्ति तथा मेहयन्ति तेन जलं वर्षयन्ति (मुद्गलः-तेन गवां शतवत् सहस्रम्) योऽयं शत्रोर्मदं निगिलति निगिरति तेन वृषभाकारेण रथेन गवां-वृषभाणां शतगुणितं सहस्रगुणितं बलं (सुभर्वम्) शोभनमदनीयं भोग्यम् “भर्वति अत्तिकर्मा” [निघ० २।८] धनादिकं (प्रधने जिगाय) सङ्ग्रामे “प्रधनम्-सङ्ग्रामनाम” [निघ० २।१२] जयति धनस्य जयं कारयति ॥५॥